मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् ५

संहिता

ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षर॑न्ति॒ धार॑या ।
तेभि॑र्नः सोम मृळय ॥

पदपाठः

ये । ते॒ । प॒वित्र॑म् । ऊ॒र्मयः॑ । अ॒भि॒ऽक्षर॑न्ति । धार॑या ।
तेभिः॑ । नः॒ । सो॒म॒ । मृ॒ळ॒य॒ ॥

सायणभाष्यम्

हे सोम ये प्रसिद्धाः ते तव ऊर्मयस्तरंगाः पवित्रं धारयाभिक्षरन्ति तेभिस्तैरूर्मिभिर्नोस्मा- न्मृळय सुखय ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८