मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् ६

संहिता

स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष॑म् ।
ईशा॑नः सोम वि॒श्वतः॑ ॥

पदपाठः

सः । नः॒ । पु॒ना॒नः । आ । भ॒र॒ । र॒यिम् । वी॒रऽव॑तीम् । इष॑म् ।
ईशा॑नः । सो॒म॒ । वि॒श्वतः॑ ॥

सायणभाष्यम्

हे सोम विश्वतः सर्वस्य जगतईशानः ईश्वरः सोभिषुतः पुनानः पूयमानस्त्वं नोस्मभ्यं रयिं धनं वीरवतीं पुत्राद्युपेतमिषमन्नं चाभराहर ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९