मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् ७

संहिता

ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॒ सिन्धु॑मातरम् ।
समा॑दि॒त्येभि॑रख्यत ॥

पदपाठः

ए॒तम् । ऊं॒ इति॑ । त्यम् । दश॑ । क्षिपः॑ । मृ॒जन्ति॑ । सिन्धु॑ऽमातरम् ।
सम् । आ॒दि॒त्येभिः॑ । अ॒ख्य॒त॒ ॥

सायणभाष्यम्

सिंधुमातरं यस्य सोमस्य सिन्धवोमातरोनद्योभवन्ति त्यं तमेतमिमं सोमं दशक्षिपो दशसंख्याकाअंगुलयो मृजंति शोधयंति । अपिच सोयं सोमः आदित्येभिरादित्यैः समख्यत संगच्छते ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९