मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् ८

संहिता

समिन्द्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ ।
सं सूर्य॑स्य र॒श्मिभि॑ः ॥

पदपाठः

सम् । इन्द्रे॑ण । उ॒त । वा॒युना॑ । सु॒तः । ए॒ति॒ । प॒वित्रे॑ । आ ।
सम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥

सायणभाष्यम्

सुतोभिषुतः सोमः पवित्रे इन्द्रेण समेति संगच्छति । उतापिच वायुना समेति सूर्यस्य रश्मिभिर्मयूखैरपि समेति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९