मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् ९

संहिता

स नो॒ भगा॑य वा॒यवे॑ पू॒ष्णे प॑वस्व॒ मधु॑मान् ।
चारु॑र्मि॒त्रे वरु॑णे च ॥

पदपाठः

सः । नः॒ । भगा॑य । वा॒यवे॑ । पू॒ष्णे । प॒व॒स्व॒ । मधु॑ऽमान् ।
चारुः॑ । मि॒त्रे । वरु॑णे । च॒ ॥

सायणभाष्यम्

हे सोम मधुमान् मधुररसश्चारुः कल्याणस्वरूपश्च सोभिषुतस्त्वं नोस्माकं यज्ञे भगाय भगाख्यायदेवाय वायवेच पूष्णे रवये मित्रे मित्राय देवाय वरुणे वरुणायच पवस्व क्षर ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९