मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् १०

संहिता

उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि षद्भूम्या द॑दे ।
उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ॥

पदपाठः

उ॒च्चा । ते॒ । जा॒तम् । अन्ध॑सः । दि॒वि । सत् । भूमिः॑ । आ । द॒दे॒ ।
उ॒ग्रम् । शर्म॑ । महि॑ । श्रवः॑ ॥

सायणभाष्यम्

हे सोम ते तव संबन्धिनोंधसो रसस्योच्चा उपरि जातं जन्म अपिच दिवि द्युलोके सत् विद्यमानं स्वतस्तवसंबन्धि उग्रमुद्गूर्णं शर्मसुखं महिमहत् श्रवोन्नंच भूमिराददे । भूम्यादद- इति पदत्रयमामनन्ति विसर्जनीयलोपः सांहितिकः । भूमिः भौमाजनामादृशाः भूमिष्ठैरादी- यत इत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९