मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् ११

संहिता

ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् ।
सिषा॑सन्तो वनामहे ॥

पदपाठः

ए॒ना । विश्वा॑नि । अ॒र्यः । आ । द्यु॒म्नानि॑ । मानु॑षाणाम् ।
सिसा॑सन्तः । व॒ना॒म॒हे॒ ॥

सायणभाष्यम्

एना एनेनानेन सोमेन मानुषाणां मनुष्याणां विश्वा विश्वानि द्युम्नान्यन्नानि अर्योभिग- च्छन्तः सिषासन्तः संभक्तुमिच्छन्तश्च वयं वनामहे संभजामहे ॥ ११ । ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०