मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् १२

संहिता

स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्य॑ः ।
व॒रि॒वो॒वित्परि॑ स्रव ॥

पदपाठः

सः । नः॒ । इन्द्रा॑य । यज्य॑वे । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।
व॒रि॒वः॒ऽवित् । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

हेसोम वरिवोविदन्नस्य लंभकः पवमानस्त्वं नोस्माकं यज्यवे यष्टव्यायेन्द्राय वरुणायच मरुद्भ्यश्च परिस्रव धारया क्षर ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०