तमिद्व॑र्धन्तु नो॒ गिरो॑ व॒त्सं सं॒शिश्व॑रीरिव ।
य इन्द्र॑स्य हृदं॒सनि॑ः ॥
तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । व॒त्सम् । सं॒शिश्व॑रीःऽइव ।
यः । इन्द्र॑स्य । हृ॒द॒म्ऽसनिः॑ ॥
यः सोम इन्द्रस्य ह्रुदंसनिर्हृदयस्य संभक्ता भवति तमित्तमेव सोमं नोस्माकं गिरः स्तुति- रूपावाचः संवर्धन्तु सम्यक् वर्धयन्तु । तत्रदृष्टान्तः—वत्सं बालं शिश्वरीरिव यथा शिश्वर्योब- द्धपयस्कामातरो वत्सं वर्धयन्ति तद्वदित्यर्थः ॥ १४ ॥