मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् १६

संहिता

पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुम् ।
ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥

पदपाठः

पव॑मानः । अ॒जी॒ज॒न॒त् । दि॒वः । चि॒त्रम् । न । त॒न्य॒तुम् ।
ज्योतिः॑ । वै॒श्वा॒न॒रम् । बृ॒हत् ॥

सायणभाष्यम्

पवमानः सोमः बृहन्महत् वैश्वानर वैश्वानराख्यं ज्योतिस्तेजोदिवोद्युलोकस्य चित्रं तन्यतुं न अशनिमिवाजीजनदजनयत् ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१