मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् १७

संहिता

पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः ।
वि वार॒मव्य॑मर्षति ॥

पदपाठः

पव॑मानस्य । ते॒ । रसः॑ । मदः॑ । रा॒ज॒न् । अ॒दु॒च्छु॒नः ।
वि । वार॑म् । अव्य॑म् । अ॒र्ष॒ति॒ ॥

सायणभाष्यम्

हे राजन् दीप्यमानसोम पवमानस्य क्षरतः ते तवादुच्छुनोरक्षोवर्जितो मदोमदकरो रसः अव्यमविमयं वारं वालं दशापवित्रं व्यर्षत्यभीगच्छति ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१