मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् १८

संहिता

पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा॑जति द्यु॒मान् ।
ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥

पदपाठः

पव॑मान । रसः॑ । तव॑ । दक्षः॑ । वि । रा॒ज॒ति॒ । द्यु॒ऽमान् ।
ज्योतिः॑ । विश्व॑म् । स्वः॑ । दृ॒शे ॥

सायणभाष्यम्

हे पवमान सोम तव त्वदीयोदक्षो व्रुद्धोद्युमान् दीप्तिमान् रसो विराजति प्रकाशते । न केवलं स्वयमेव प्रकाशते किंतु विश्वं व्याप्तं स्वः सर्वं ज्योतिस्तेजश्च दृशे द्रष्टुं करोतीति शेषः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१