मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् १९

संहिता

यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वान्ध॑सा ।
दे॒वा॒वीर॑घशंस॒हा ॥

पदपाठः

यः । ते॒ । मदः॑ । वरे॑ण्यः । तेन॑ । प॒व॒स्व॒ । अन्ध॑सा ।
दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥

सायणभाष्यम्

हे सोम ते तव देवावीर्देवकामोघशंसहा राक्षसानां हन्ता वरेण्यः सर्वैर्वरणीयो मदोमदकरो योरसोविद्यते तेन रसेनांधसादनीयेन पवस्व क्षर ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१