मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् २०

संहिता

जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे ।
गो॒षा उ॑ अश्व॒सा अ॑सि ॥

पदपाठः

जघ्निः॑ । वृ॒त्रम् । अ॒मि॒त्रिय॑म् । सस्निः॑ । वाज॑म् । दि॒वेऽदि॑वे ।
गो॒ऽसाः । ऊं॒ इति॑ । अ॒श्व॒ऽसाः । अ॒सि॒ ॥

सायणभाष्यम्

हे सोम त्वममित्रियममित्रभवं वृत्रं शत्रुं जघ्निर्हंतासि भवसि । किंच दिवेदिवे प्रतिदिनं वाजं संग्रामं सस्निः संभक्तासि । किंच गोषाः गवां दातासि अश्वसाः अश्वानां दातासि ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१