मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् २१

संहिता

सम्मि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभि॑ः ।
सीद॑ञ्छ्ये॒नो न योनि॒मा ॥

पदपाठः

सम्ऽमि॑श्लः । अ॒रु॒षः । भ॒व॒ । सु॒ऽउ॒प॒स्थाभिः । न । धे॒नुऽभिः॑ ।
सीद॑म् । श्ये॒नः । न । योनि॑म् । आ ॥

सायणभाष्यम्

हे सोम त्वं सूपस्थाभिः शोभनोपस्थानाभिः धेनुभिर्गोभिः गोविकारैः पयोभिरित्यर्थः । संमिश्लः संमिश्चितः श्येनोन यथा श्येनः शीघ्रमागत्य स्थानमासीदति तद्वद्योनिं स्वकीयं स्थानं आसीदन् । न संप्रत्यर्थे । इदानीमरुष आरोचमानोभव ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२