स प॑वस्व॒ य आवि॒थेन्द्रं॑ वृ॒त्राय॒ हन्त॑वे ।
व॒व्रि॒वांसं॑ म॒हीर॒पः ॥
सः । प॒व॒स्व॒ । यः । आवि॑थ । इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे ।
व॒व्रि॒ऽवांस॑म् । म॒हीः । अ॒पः ॥
हे सोम यस्त्वं महीर्महतीरपो महांत्युदकानि वव्रिवांसं निरुंधानं वृत्राय वृत्रं हन्तवे हन्तुं इन्द्रमाविथ रक्ष । सत्वं पवस्व धारया क्षर । सोमं पीत्वा मत्तः सन्निन्द्रो महांत्युदकानि निरुं- धानं वृत्रं जघानेत्यर्थः ॥ २२ ॥