मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् २३

संहिता

सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः ।
पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ॥

पदपाठः

सु॒ऽवीरा॑सः । व॒यम् । धना॑ । जये॑म । सो॒म॒ । मी॒ढ्वः॒ ।
पु॒ना॒नः । व॒र्ध॒ । नः॒ । गिरः॑ ॥

सायणभाष्यम्

हे मीढ्वः सेक्तः सोम पुनानः पूयमानस्त्वं सुवीरासः सुवीराः कल्याणपुत्राः वयममहीयव आंगिरसाः धना शत्रूणां धनानि जयेम शत्रून् जित्वा तदीयानि धनानि स्वीकुर्यामेत्यर्थः । नो- स्माकं गिरः स्तुतिरूपावाचश्च वर्ध वर्धय ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२