मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् २४

संहिता

त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ ।
सोम॑ व्र॒तेषु॑ जागृहि ॥

पदपाठः

त्वाऽऊ॑तासः । तव॑ । अव॑सा । स्याम॑ । व॒न्वन्तः॑ । आ॒ऽमुरः॑ ।
सोम॑ । व्र॒तेषु॑ । जा॒गृ॒हि॒ ॥

सायणभाष्यम्

हे सोम तव त्वदीयेनावसा रक्षणेन त्वोतासः त्वया रक्षिताः सन्तो वन्वन्तः शत्रून् भजमाना आमुरस्तेषामभिमारकाः स्याम भवेम । व्रतेष्वस्माकं कर्मसु जागृहि प्रबुद्धोभव ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२