मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् २६

संहिता

म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ ।
रास्वे॑न्दो वी॒रव॒द्यशः॑ ॥

पदपाठः

म॒हः । नः॒ । रा॒यः । आ । भ॒र॒ । पव॑मान । ज॒हि । मृधः॑ ।
रास्व॑ । इ॒न्दो॒ इति॑ । वी॒रऽव॑त् । यशः॑ ॥

सायणभाष्यम्

हे पवमानेन्दो सोम नोस्माकं महोमहान्ति रायोधनान्याभराहर । मृधोहिंसकान् शत्रून् च जहि मारय । वीरवत् पुत्राद्युपेतां यशः कीर्तिंच रास्वास्मभ्यं देहि ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३