मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् २७

संहिता

न त्वा॑ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स॑न्त॒मा मि॑नन् ।
यत्पु॑ना॒नो म॑ख॒स्यसे॑ ॥

पदपाठः

न । त्वा॒ । श॒तम् । च॒न । हुतः॑ । राधः॑ । दित्स॑न्तम् । आ । मि॒न॒न् ।
यत् । पु॒ना॒नः । म॒ख॒स्यसे॑ ॥

सायणभाष्यम्

हे सोम राधोधनमादित्सन्तमादातुमिच्छन्तं त्वा त्वां शतं चन बहवोपि ह्रुतोहिंसकाः शत्रवोनमिनन्नहिंसन्ति । कदेत्यत्राह यद्यदा पुनानः पूयमानस्त्वं मखस्यसेस्मभ्यं धनंदातुमि- च्छसि ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३