मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् २८

संहिता

पव॑स्वेन्दो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ ।
विश्वा॒ अप॒ द्विषो॑ जहि ॥

पदपाठः

पव॑स्व । इ॒न्दो॒ इति॑ । वृषा॑ । सु॒तः । कृ॒धि । नः॒ । य॒शसः॑ । जने॑ ।
विश्वाः॑ । अप॑ । द्विषः॑ । ज॒हि॒ ॥

सायणभाष्यम्

हे इन्दो सोम सुतोभिषुतो वृषा सेक्ता त्वं पवस्व धारया क्षर । जने जनपदेषु नोस्मान् यशसोयशस्विनः कृधि कुरु । विश्वाः सर्वान् द्विषोद्वेष्टृन् शत्रून् अपजहि मारय च ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३