मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् ३०

संहिता

या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे ।
रक्षा॑ समस्य नो नि॒दः ॥

पदपाठः

या । ते॒ । भी॒मानि॑ । आयु॑धा । ति॒ग्मानि॑ । सन्ति॑ । धूर्व॑णे ।
रक्ष॑ । स॒म॒स्य॒ । नः॒ । नि॒दः ॥

सायणभाष्यम्

हे सोम ते तव या यानि भीमानि शत्रूणां भयंकराणि तिग्मानि तीक्ष्णानि आयुधा आयु- धानि धूर्वणे शत्रुवधार्थं सन्ति तैरायुधैः समस्य सर्वस्य शत्रोर्निदोनिन्दाया नोस्मान् रक्ष पालय ॥ ३० ॥

एतेअसृग्रमिति त्रिंशदृचं द्वितीयं सूक्तं भार्गवस्य जमदग्नेरार्षं गायत्रं पवमानसोमदेवताकम् । तथाचानुक्रान्तं—एतेअसृग्रंजमदग्निरिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३