मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् १

संहिता

ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।
विश्वा॑न्य॒भि सौभ॑गा ॥

पदपाठः

ए॒ते । अ॒सृ॒ग्र॒म् । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ ।
विश्वा॑नि । अ॒भि । सौभ॑गा ॥

सायणभाष्यम्

आशवः शीघ्रा एते पवमानाइन्दवः सोमा विश्वानि सर्वाणि सौभगा सौभगानि धनान्य- भिलक्ष्य पवित्रं तिरः असृग्रं ऋत्विग्भिः सृज्यन्ते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४