मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् ३

संहिता

कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् ।
इळा॑म॒स्मभ्यं॑ सं॒यत॑म् ॥

पदपाठः

कृ॒ण्वन्तः॑ । वरि॑वः । गवे॑ । अ॒भि । अ॒र्ष॒न्ति॒ । सु॒ऽस्तु॒तिम् ।
इळा॑म् । अ॒स्मभ्य॑म् । स॒म्ऽयत॑म् ॥

सायणभाष्यम्

अस्माकं गवेस्मभ्यंच संयतं यदास्मान् संयच्छति तद्वरिवोधनमिळामन्नं च कृण्वन्तः कुर्वंतः सोमाः सुष्टुतिमस्मदीयां शोभनां स्तुतिमभ्यर्षंत्याभिमुख्येन गच्छन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४