मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् ५

संहिता

शु॒भ्रमन्धो॑ दे॒ववा॑तम॒प्सु धू॒तो नृभि॑ः सु॒तः ।
स्वद॑न्ति॒ गाव॒ः पयो॑भिः ॥

पदपाठः

शु॒भ्रम् । अन्धः॑ । दे॒वऽवा॑तम् । अ॒प्ऽसु । धू॒तः । नृऽभिः॑ । सु॒तः ।
स्वद॑न्ति । गावः॑ । पयः॑ऽभिः ॥

सायणभाष्यम्

यद्देववातं देवैःप्रार्थितं शुभ्रं शोभनमन्धोन्नं गावः पशवः पयोभिराशिरैः स्वदन्ति स्वादय- न्ति सोयं सोमो नृभिर्नेतृभिरृत्विग्भिः सुतोभिषुतः सन्नप्सु वसतीवरीषु धूतः शोधितोभवति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४