मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् ६

संहिता

आदी॒मश्वं॒ न हेता॒रोऽशू॑शुभन्न॒मृता॑य ।
मध्वो॒ रसं॑ सध॒मादे॑ ॥

पदपाठः

आत् । ई॒म् । अश्व॑म् । न । हेता॑रः । अशू॑शुभन् । अ॒मृता॑य ।
मध्वः॑ । रस॑म् । स॒ध॒ऽमादे॑ ॥

सायणभाष्यम्

आदनन्तरं हेतारः प्रेरकाऋत्विजः सधमादे यज्ञे ईमेनं मध्वोमदकरस्य सोमस्य रसं अमृतायामरणायाश्वं नाश्वमिवाशूशुभन् शोभयन्ति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५