मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् ७

संहिता

यास्ते॒ धारा॑ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये॑ ।
ताभि॑ः प॒वित्र॒मास॑दः ॥

पदपाठः

याः । ते॒ । धाराः॑ । म॒धु॒ऽश्चुतः॑ । असृ॑ग्रम् । इ॒न्दो॒ इति॑ । ऊ॒तये॑ ।
ताभिः॑ । प॒वित्र॑म् । आ । अ॒स॒दः॒ ॥

सायणभाष्यम्

हे इन्दो सोम ते तव मधुश्चुतो मधुररसस्य श्चोतयित्र्योयाधारा ऊतये रक्षणाय असृयमसृ- ज्यन्त ताभिर्धाराभिस्त्वं पवित्रमासदआसीद ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५