मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् ९

संहिता

त्वमि॑न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः ।
व॒रि॒वो॒विद्घृ॒तं पयः॑ ॥

पदपाठः

त्वम् । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ । स्वादि॑ष्ठः । अङ्गि॑रःऽभ्यः ।
व॒रि॒वः॒ऽवित् । घृ॒तम् । पयः॑ ॥

सायणभाष्यम्

हे इन्दो सोम स्वादिष्ठः स्वादुतमो वरिवोविदस्मदभिलषितस्य धनस्य लंभकश्च त्वमं- गिरोभ्योंगिरसामर्थाय घृतमाज्यं पयश्च परिस्रव परिक्षर ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५