मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् ११

संहिता

ए॒ष वृषा॒ वृष॑व्रत॒ः पव॑मानो अशस्ति॒हा ।
कर॒द्वसू॑नि दा॒शुषे॑ ॥

पदपाठः

ए॒षः । वृषा॑ । वृष॑ऽव्रतः । पव॑मानः । अ॒श॒स्ति॒ऽहा ।
कर॑त् । वसू॑नि । दा॒शुषे॑ ॥

सायणभाष्यम्

वृषा कामानां सेक्ता वृषव्रतो वृषकर्मा अशास्तिहा राक्षसानां हन्ता पवमान एषसोमो दाशुषे हविषां दात्रे यजमानाय वसूनि धनानि करत् करोति प्रयच्छतीत्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६