मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् १२

संहिता

आ प॑वस्व सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह॑म् ॥

पदपाठः

आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
पु॒रु॒ऽच॒न्द्रम् । पु॒रु॒ऽस्पृह॑म् ॥

सायणभाष्यम्

हे सोम त्वं सहस्रिणं बहुसंख्याकं गोमन्तं गोभिरुपेतमश्विनमश्ववन्तं पुरुश्चन्द्रं बहूनां हर्षकं पुरुस्पृहं बहुस्पृहणीयं रयिं धनमापवस्व परिक्षर ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६