मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् १४

संहिता

स॒हस्रो॑तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः ।
इन्द्रा॑य पवते॒ मदः॑ ॥

पदपाठः

स॒हस्र॑ऽऊतिः । श॒तऽम॑घः । वि॒ऽमानः॑ । रज॑सः । क॒विः ।
इन्द्रा॑य । प॒व॒ते॒ । मदः॑ ॥

सायणभाष्यम्

सहस्रोतिरपरिमितरक्षणः शतमघो बहुधनो रजसो लोकस्य विमानो निर्माता कविः क्रान्त कर्मा मदो मदकरः सोमइन्द्रायेन्द्रार्थं पवते धारया क्षरति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६