मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् १५

संहिता

गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा॑य धीयते ।
विर्योना॑ वस॒तावि॑व ॥

पदपाठः

गि॒रा । जा॒तः । इ॒ह । स्तु॒तः । इन्दुः॑ । इन्द्रा॑य । धी॒य॒ते॒ ।
विः । योना॑ । व॒स॒तौऽइ॑व ॥

सायणभाष्यम्

जातः प्रादुर्भूतः गिरा स्तुत्या स्तुतश्चेन्दुः सोम इहास्मिन्यज्ञे योना योनौ स्वस्थाने इन्द्रा- येन्द्रार्थं वसताविव विःपक्षी यथा स्ववासे तथा धीयते निधीयते ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६