मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् १६

संहिता

पव॑मानः सु॒तो नृभि॒ः सोमो॒ वाज॑मिवासरत् ।
च॒मूषु॒ शक्म॑ना॒सद॑म् ॥

पदपाठः

पव॑मानः । सु॒तह् । नृऽभिः॑ । सोमः॑ । वाज॑म्ऽइव । अ॒स॒र॒त् ।
च॒मूषु॑ । शक्म॑ना । आ॒ऽसद॑म् ॥

सायणभाष्यम्

नृभिर्नेतृभिरृत्विग्भिः सुतोभिषुतः पवमानः सोमश्च चमूषु चमसेषु शक्मना बलेनासद- मुपवेष्टुं वाजमिव युद्धमिव स्थानमसरत्सरति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७