मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् १७

संहिता

तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे॑ युञ्जन्ति॒ यात॑वे ।
ऋषी॑णां स॒प्त धी॒तिभि॑ः ॥

पदपाठः

तम् । त्रि॒ऽपृ॒ष्ठे । त्रि॒ऽव॒न्धु॒रे । रथे॑ । यु॒ञ्ज॒न्ति॒ । यात॑वे ।
ऋषी॑णाम् । स॒प्त । धी॒तिऽभिः॑ ॥

सायणभाष्यम्

त्रिपृष्ठे त्रिषवणपृष्ठे त्रिवंधुरे त्रिवेदवधुरे ऋषीणांरथे यज्ञरथे तं सोमं सप्त सप्तभिः धीतिभि- श्छंदोभिः यातवे देवान्प्रतिगन्तुं युंजन्ति ऋत्विजोयोजयन्ति ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७