मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् १८

संहिता

तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे ।
हरिं॑ हिनोत वा॒जिन॑म् ॥

पदपाठः

तम् । सो॒ता॒रः॒ । ध॒न॒ऽस्पृत॑म् । आ॒शुम् । वाजा॑य । यात॑वे ।
हरि॑म् । हि॒नो॒त॒ । वा॒जिन॑म् ॥

सायणभाष्यम्

हे सोतारोभिषवकर्तार ऋत्विजः धनस्पृतं धनानां स्प्रष्टारं वाजिनं बलिनं आशुं वेगवंतं सोमात्मकं हरिमश्वं वाजाय यज्ञाख्यं संग्रामं यातवे गतुं हिनोत प्रेरयत । यथा योद्धारोयुद्धं गंतुं बलिनं वेगवंतमश्वं प्रेरयन्ति तद्वत् यज्ञमभीगन्तुं बलवन्तं सोमं प्रेरयतेति भावः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७