मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् २०

संहिता

आ त॑ इन्दो॒ मदा॑य॒ कं पयो॑ दुहन्त्या॒यवः॑ ।
दे॒वा दे॒वेभ्यो॒ मधु॑ ॥

पदपाठः

आ । ते॒ । इ॒न्दो॒ इति॑ । मदा॑य । कम् । पयः॑ । दु॒ह॒न्ति॒ । आ॒यवः॑ ।
दे॒वाः । दे॒वेभ्यः॑ । मधु॑ ॥

सायणभाष्यम्

हे इन्दो सोम ते तव मधु मधुभूतं पयः पेयरसं देवाः स्तोतारः आयवोमनुष्या मदाय कं मदार्थं देवेभ्य इन्द्रादिभ्यः आदुहन्ति ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७