मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् २१

संहिता

आ न॒ः सोमं॑ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् ।
दे॒वेभ्यो॑ देव॒श्रुत्त॑मम् ॥

पदपाठः

आ । नः॒ । सोम॑म् । प॒वित्रे॑ । आ । सृ॒जत॑ । मधु॑मत्ऽतमम् ।
दे॒वेभ्यः॑ । दे॒व॒श्रुत्ऽत॑मम् ॥

सायणभाष्यम्

हे ऋत्विजो नोस्माकं देवश्रुत्तममत्यन्तं देवैः श्रूयमाणं मधुमत्तमं अतिशयेन मधुमन्तं सोमंदेवेभ्य इन्द्राधर्थं पवित्रे दशापवित्रे आसृजत साधयत ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८