मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् २२

संहिता

ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे ।
म॒दिन्त॑मस्य॒ धार॑या ॥

पदपाठः

ए॒ते । सोमाः॑ । अ॒सृ॒क्ष॒त॒ । गृ॒णा॒नाः । श्रव॑से । म॒हे ।
म॒दिन्ऽत॑मस्य । धार॑या ॥

सायणभाष्यम्

गृणानाः स्तूयमाना एते इमे सोमा महे महते श्रवसे अन्नाय मदिन्तमस्य मादयितृतमस्य रसस्य धारया असृक्षत ऋत्विग्भिः सृज्यन्ते ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८