मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् २५

संहिता

पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभि॑ः ।
अ॒भि विश्वा॑नि॒ काव्या॑ ॥

पदपाठः

पव॑स्व । वा॒चः । अ॒ग्रि॒यः । सोम॑ । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।
अ॒भि । विश्वा॑नि । काव्या॑ ॥

सायणभाष्यम्

हे सोमाग्रियोमुख्यस्त्वं चित्राभिः पूजनीयैरूतिभीरक्षणैः सह वाचोस्मदीयाःस्तुतीः अभिपवस्व । एतदेव दर्शयति – विश्वानि सर्वाणि काव्या काव्यानि स्तुत्यात्मकानि वाक्यान्य भि पवस्वेति ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८