मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् २७

संहिता

तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो॑म तस्थिरे ।
तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ॥

पदपाठः

तुभ्य॑ । इ॒मा । भुव॑ना । क॒वे॒ । म॒हि॒म्ने । सो॒म॒ । त॒स्थि॒रे॒ ।
तुभ्य॑म् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः ॥

सायणभाष्यम्

हे कवे क्रान्तकर्मन् सोम तुभ्य तुभ्यं तव महिम्ने इमा इमानि भुवना भुवनानि तस्थिरे तिष्ठन्ति त्वामेव पुरस्कुर्वन्तीत्यर्थः । अपिच सिंधवोनद्यस्तुभ्यमेवार्षंति गच्छन्ति त्वदाज्ञामे- वानुबलयन्तीत्यर्थः ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९