मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् २८

संहिता

प्र ते॑ दि॒वो न वृ॒ष्टयो॒ धारा॑ यन्त्यस॒श्चतः॑ ।
अ॒भि शु॒क्रामु॑प॒स्तिर॑म् ॥

पदपाठः

प्र । ते॒ । दि॒वः । न । वृ॒ष्टयः॑ । धाराः॑ । य॒न्ति॒ । अ॒स॒श्चतः॑ ।
अ॒भि । शु॒क्राम् । उ॒प॒ऽस्तिर॑म् ॥

सायणभाष्यम्

हे सोम ते तव असश्चतोसंगाधारा दिवोन्तरिक्षाद्वृष्टयोन वर्षाणीव शुक्रां शुक्लवर्णां सुक्लवर्णैरविलोमनिर्मितमुपस्तिर मुपस्तीर्यमाणं पवितमभि प्रति प्रयन्ति ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९