मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् २९

संहिता

इन्द्रा॒येन्दुं॑ पुनीतनो॒ग्रं दक्षा॑य॒ साध॑नम् ।
ई॒शा॒नं वी॒तिरा॑धसम् ॥

पदपाठः

इन्द्रा॑य । इन्दु॑म् । पु॒नी॒त॒न॒ । उ॒ग्रम् । दक्षा॑य । साध॑नम् ।
ई॒शा॒नम् । वी॒तिऽरा॑धसम् ॥

सायणभाष्यम्

हे ऋत्विजः उग्रमुद्र्गूर्णं दक्षाय बलस्य साधनं करणं ईशानं धनानामीश्वरं वीतिराधसं दत्तधनं इन्दुं सोमं इन्दायेन्द्रार्थं पुनीतन पुनीत ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९