पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् ।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
पव॑मानः । ऋ॒तः । क॒विः । सोमः॑ । प॒वित्र॑म् । आ । अ॒स॒द॒त् ।
दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥
ऋतः सत्यभूतः कविः क्रान्तकर्मा पवमानः सोमोस्मदीये स्तोत्रे सुवीर्यं शोभनवीर्यं द- धत् प्रयच्छन् पवित्रमासददासीदति ॥ ३० ॥
आपवस्वेति त्रिंशदृचं तृतीयं सूक्तं काश्यपस्य निध्रुवेरार्षं गायत्रं पवमानसोमदेव- ताकम् । तथाचानुक्रान्तं—आपवस्वनिध्रुविः काश्यपइति । गतोविनियोगः ।