मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् १

संहिता

आ प॑वस्व सह॒स्रिणं॑ र॒यिं सो॑म सु॒वीर्य॑म् ।
अ॒स्मे श्रवां॑सि धारय ॥

पदपाठः

आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् । र॒यिम् । सो॒म॒ । सु॒ऽवीर्य॑म् ।
अ॒स्मे इति॑ । श्रवां॑सि । धा॒र॒य॒ ॥

सायणभाष्यम्

हे सोम त्वं सहस्रिणं बहुसंख्याकं सुवीर्यं शोभनवीर्यं रयिं धनमापवस्वाभिमुख्येन क्षर । अपिचास्मे अस्मासु श्रवांस्यन्नानि धारय स्थापय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०