मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् २

संहिता

इष॒मूर्जं॑ च पिन्वस॒ इन्द्रा॑य मत्स॒रिन्त॑मः ।
च॒मूष्वा नि षी॑दसि ॥

पदपाठः

इष॑म् । ऊर्ज॑म् । च॒ । पि॒न्व॒से॒ । इन्द्रा॑य । म॒त्स॒रिन्ऽत॑मः ।
च॒मूषु॑ । आ । नि । सी॒द॒सि॒ ॥

सायणभाष्यम्

हे सोम मत्सरिन्तमः अतिशयेन मदयितृतमः त्वमिन्द्रायेन्द्रार्थमिषमन्नमूर्जं रसंच पिन्वसे क्षरसि । अपिच चमूषु चमसेष्वानिषीदसि तिष्ठसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०