मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् ४

संहिता

ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रवः॑ ।
सोमा॑ ऋ॒तस्य॒ धार॑या ॥

पदपाठः

ए॒ते । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । अति॑ । ह्वरां॑सि । ब॒भ्रवः॑ ।
सोमाः॑ । ऋ॒तस्य॑ । धार॑या ॥

सायणभाष्यम्

बभ्रवोबभ्रुवर्णा आशवः शीघ्रा एते इमे सोमा ऋतस्योदकस्य धारया असृग्रन् सृज्यन्ते ह्वरांसि रक्षांस्यति गच्छन्तिच ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०