मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् ५

संहिता

इन्द्रं॒ वर्ध॑न्तो अ॒प्तुरः॑ कृ॒ण्वन्तो॒ विश्व॒मार्य॑म् ।
अ॒प॒घ्नन्तो॒ अरा॑व्णः ॥

पदपाठः

इन्द्र॑म् । वर्ध॑न्तः । अ॒प्ऽतुरः॑ । कृ॒ण्वन्तः॑ । विश्व॑म् । आर्य॑म् ।
अ॒प॒ऽघ्नन्तः॑ । अरा॑व्णः ॥

सायणभाष्यम्

इन्द्रंवर्धन्तो वर्धयन्तोप्तुर उदकस्य प्रेरकाविश्वं सोमं अस्मदीयकर्मार्थं आर्यं भद्रं कृण्वतः कुर्वन्तोराव्णो दातॄनपघ्नन्तोविनाशयन्तः अभ्यर्षन्तीति उत्तरया संबन्धः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०