मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् ६

संहिता

सु॒ता अनु॒ स्वमा रजो॒ऽभ्य॑र्षन्ति ब॒भ्रवः॑ ।
इन्द्रं॒ गच्छ॑न्त॒ इन्द॑वः ॥

पदपाठः

सु॒ताः । अनु॑ । स्वम् । आ । रजः॑ । अ॒भि । अ॒र्ष॒न्ति॒ । ब॒भ्रवः॑ ।
इन्द्र॑म् । गच्छ॑न्तः । इन्द॑वः ॥

सायणभाष्यम्

बभ्रवो बभ्रुवर्णाः सुताअभिषुता इन्दवः सोमाः इन्द्रमागच्छन्तः आभिमुख्येन प्राप्नुवन्तः स्वं स्वकीयं रजः स्थानमनु प्रति अभ्यर्षन्ति अभिगच्छन्ति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१