मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् ९

संहिता

उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे ।
इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ॥

पदपाठः

उ॒त । त्याः । ह॒रितः॑ । दश॑ । सूरः॑ । अ॒यु॒क्त॒ । यात॑वे ।
इन्दुः॑ । इन्द्रः॑ । इति॑ । ब्रु॒वन् ॥

सायणभाष्यम्

उतापिचेन्दुः सोमः इन्द्रइति ब्रुवन् त्या ता दश दशसंख्याका हरितो दिशः प्रति यातवे गन्तुं सूरः सूर्यस्यैतशमयुक्त युनक्ति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१