मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् १०

संहिता

परी॒तो वा॒यवे॑ सु॒तं गिर॒ इन्द्रा॑य मत्स॒रम् ।
अव्यो॒ वारे॑षु सिञ्चत ॥

पदपाठः

परि॑ । इ॒तः । वा॒यवे॑ । सु॒तम् । गिरः॑ । इन्द्रा॑य । म॒त्स॒रम् ।
अव्यः॑ । वारे॑षु । सि॒ञ्च॒त॒ ॥

सायणभाष्यम्

हे गिरः स्तोरारोयूयं वायवे वाय्वर्थं इन्द्रायेन्द्रार्थंच सुतमभिषुतं मत्सरं मदकरं सोममि तोभिषवदेशादुद्धृत्य अव्यः अवेर्वारेषु वालेषु परिषिंचत ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१